Moti Shanti Lyrics In Hindi Lyrics
श्री बृहत्-शांति | મોટી શાંતિ | બૃહદ્ શાંતી
    
      भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतद्,
  
  
    
      ये यात्रायां त्रि-भुवनगुरो-राडडर्हता! भक्तिभाजः
  
  
    
      तेषां शान्तिर्भवतु भवता-मर्हदादि-प्रभावा-दारोग्य-श्री-धृति-मति-करी
      क्लेशविध्वंस-हेतुः. १
  
  
    
      भो भो भव्य लोका! इह हि-भरतैरावत-विदेह-संभवानां,
  
  
    
      समस्त-तीर्थकृतां जन्मन्याडडसन-प्रकम्पा-नन्तरमवधिना
  
  
    
      विज्ञाय सौधर्माधिपतिः सुघोषा-घण्टा-चालनानन्तरं,
  
  
    
      सकल-सुरासुरेन्द्रैः सह समागत्य, सविनयमर्हद्भट्टारकं गृहीत्वा,
  
  
    
      गत्वा कनकाद्रिशृङ्गे विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा ततोडहम्
  
  
    
      ’कृतानुकारमिति’ कृत्वा, ’महाजनो येन गतः स पन्थाः’
  
  
    
      इति भव्यजनैः सह समेत्य स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्घोषयामि तत्
      पूजा-यात्रा-स्नात्रादि-महोत्सवा-नन्तरमिति कृत्वाकर्णं दत्त्वा निशम्यतां
      निशम्यतां स्वाहा.
  
  
    
      ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्ताम्,
  
  
    
      भगवन्तोडर्हन्तः सर्वज्ञाः
      सर्वदठ्ठशनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोक-पूजया-स्त्रिलोकेश्वारास्त्रिलोकोद्योतकराः.
  
  
    
      ॐ ऋषभ-अजित-संभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्वा-
  
  
    
      चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूजय-विमल-अनन्त-धर्म-
  
  
    
      शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्वा-वर्धमानान्ता
  
  
    
      जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा.
  
  
    
      ॐ मुनयो मुनिप्रवरा रिपु-विजय-दुठ्ठभक्ष-कान्तारेषु दुर्ग-मार्गेषु रक्षन्तु
      वो नित्यं स्वाहा.
  
  
    
      ॐ ह्रीं श्रीं
      धृति-मति-कीठ्ठत-कान्ति-बुद्धि-लक्ष्मी-मेधा-विद्यासाधन-प्रवेश-निवेशनेषु
      सु-गृहीत-नामानो जयन्तु ते जिनेन्द्राः.
  
  
    
      ॐ
      रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-काली-महाकाली-गौरी-गान्धारी-सर्वास्त्रा-महा-जवाला-मानवी-वैरोटया-अच्छुप्ता-मानसी-महामानसी
      षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा.
  
  
    
      ॐ आचार्योपाध्याय-प्रभृति-चातुर्वर्णस्य श्री श्रमणसंघस्य शान्तिर्भवतु
      तुष्टिर्भवतु पुष्टिर्भवतु.
  
  
  
    
      ॐ ग्रहाश्चन्द्र-सूर्यांगारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-सहिताः
      स-लोकपालाः सोम-यम-वरुण-कुबेर- वासवादित्य-स्कन्द-विनायकोपेता ये चान्येडपि
      ग्राम-नगर-क्षेत्र-देवतादयस्ते सर्वे प्रीयन्तां प्रीयन्ताम्, अ-क्षीण-कोश-
      कोष्ठागारा नरपतयश्च भवन्तु स्वाहा.
  
  
    
      ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत्-स्वजन-संबन्धि-बन्धु-वर्ग-सहिताः नित्यं
      चामोद-प्रमोद-कारिणः अस्मिंश्च भूमण्डल
      आयतन-निवासि-साधु-साध्वी-श्रावक-श्राविकाणां रोगो-पसर्ग
      व्याधि-दुःख-दुठ्ठभक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु.
  
  
    
      ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः, सदा प्रादुर्भूतानि पापानि
      शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा.
  
  
    
      श्रीमते शान्ति-नाथाय, नमः शान्ति-विधायिने;
  
  
    
      त्रैलोक्यस्यामराधीश-मुकुटाभ्यठ्ठचतांध्रये. १
  
  
    
      शान्तिः शान्तिकरः श्रीमान्, शान्तिं दिशतु मे गुरु;
  
  
    
      शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे. २
  
  
  
    
      उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुठ्ठनमित्तादि;
  
  
    
      संपादित-हित-संपन्नाम-ग्रहणं जयति शान्तेः. ३
  
  
    
      श्रीसंघजगज्जनपदराजाधिपराजसन्निवेशानाम्;
  
  
    
      गोष्टिकपुरमुख्याणां, व्याहरणैर्व्याहरेच्छान्तिम्. ४
  
  
     श्री-श्रमण-संघस्य शान्तिर्भवतु.
  
  
     श्री-जनपदानां शान्तिर्भवतु.
  
  
     श्री-राजाधिपानां शान्तिर्भवतु.
  
  
    
      श्री-राजसन्निवेशानां शान्तिर्भवतु.
  
  
     श्री-गोष्टिकानां शान्तिर्भवतु.
  
  
     श्री-पौरमुख्याणां शान्तिर्भवतु.
  
  
     श्री-पौरजनस्य शान्तिर्भवतु.
  
  
     श्री-ब्रह्मलोकस्य शान्तिर्भवतु.
  
  
    
      ॐ स्वाहा ॐ स्वाहा ॐ श्री पार्श्वानाथाय स्वाहा.
  
  
  
    
      एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा
  
  
    
      कुंकुम-चन्दन-कर्पूरागरु-धुपवास-कुसुमांजलि-समेतः स्नात्र-चतुष्किकायां
  
  
    
      श्रीसंघसमेतः शुचि-शुचि-वपुः, पुष्प-वस्त्र-चन्दना-भरणालंकृतः पुष्पमालां
      कण्ठे कृत्वा,
  
  
    
      शान्तिमुद्घोष-यित्वा, शान्तिपानीयं मस्तके दातव्यमिति.
  
  
     नृत्यन्ति नृत्यं मणिपुष्पवर्षं,
  
  
     सृजन्ति गायन्ति च मंगलानि;
  
  
    
      स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्,
  
  
     कल्याणभाजो हि जिनाभिषेके. १
  
  
    
      शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः;
  
  
    
      दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः. २
  
  
    
      अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनि-वासिनी;
  
  
    
      अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा. ३
  
  
    
      उपर्सग्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः;
  
  
    
      मनः प्रसन्नतामेति, पूजयमाने जिनेश्वारे. ४
  
  
    
      सर्वमंगलमांगल्यं, सर्वकल्याणकारणम्;
  
  
    
      प्रधानं सर्वधर्माणां, जैनं जयति शासनम्. ५
  
 
 
         
 
 
 
1 Comments
I need lyrics of Shri motishanti in English
ReplyDelete